वांछित मन्त्र चुनें

हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑: क॒लशे॒ सोमो॑ अज्यते । उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रिय॑: ॥

अंग्रेज़ी लिप्यंतरण

harim mṛjanty aruṣo na yujyate saṁ dhenubhiḥ kalaśe somo ajyate | ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ ||

पद पाठ

हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ । उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥ ९.७२.१

ऋग्वेद » मण्डल:9» सूक्त:72» मन्त्र:1 | अष्टक:7» अध्याय:2» वर्ग:27» मन्त्र:1 | मण्डल:9» अनुवाक:4» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा के उपदेश का निरूपण करते हैं।

पदार्थान्वयभाषाः - (सोमः) परमात्मा (उद्वाचम्) सदुपदेश की (ईरयति) प्रेरणा करनेवाला है। (मती) बुद्धि का (हिन्वते) प्रेरक है और (पुरुष्टुतस्य) विज्ञानियों को (परिप्रियः) सर्वोपरि प्यारा परमात्मा (कतिचित्) अनन्त दान देता है। (अरुषो न) विद्युत् की तरह वह परमात्मा (युज्यते) युक्त होता है। ऐसे (हरी) परमात्मा को उपासक (मृजन्ति) ध्यानविषय करते हैं और उसका (सं धेनुभिः) इन्द्रियों के द्वारा (कलशे) अन्तःकरणों में (अज्यते) साक्षात्कार किया जाता है ॥१॥
भावार्थभाषाः - जो लोग अपनी इन्द्रियों को संस्कृत बनाते हैं अर्थात् शुद्ध मनवाले होते हैं, परमात्मा अवश्यमेव उनके ध्यान का विषय होता है ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ परमात्मोपदेशो निरूप्यते।

पदार्थान्वयभाषाः - (सोमः) परमेश्वरः (उद्वाचम्) सदुपदेशं (ईरयति) प्रेरयति। परमात्मा (मती) बुद्धिं (हिन्वते) प्रेरयति। अथ च (पुरुष्टुतस्य) विज्ञानिनां (परिप्रियः) सखा। तस्मै (कतिचित्) बहुधनानि प्रयच्छति (कलशे) संस्कृतान्तःकरणे (सं धेनुभिः) संस्कृतेन्द्रियैः परमात्मा (अज्यते) पूज्यते। सोऽयं परमात्मा (अरुषो न) विद्युदिव (युज्यते) सर्वत्र युक्तो भवति ॥१॥